विसृजन्त्यविकत्थिनः परे
विषमाशीविषवन्नराः क्रुधम् ।
दधतोऽन्तरसाररूपतां
ध्वनिसाराः पटहा इवेतरे ॥

मल्लिनाथः विसृजन्तीति ॥ परे नराः सत्पुरुषाः विषमाशीविषवत् क्रूरसर्पवदित्युपमा । अविकस्थिनोऽनात्मश्लाघिन एव कुधं क्रोधं विसृजन्ति वमन्ति । पराक्रमन्तीत्यर्थः । अन्तरभ्यन्तरे असाररूपतां निःसाररूपतां दधतो दधानाः । `नाभ्यस्ताच्छतुः` (अष्टाध्यायी ७.१.७८ ) इति नुमभावः । इतरे जना दुर्जनाः पटहा इव ध्वनिरेव सारो&#३२; बलं येषां ते ध्वनिसारा वाक्शूरा एव । न तु बाहुबलशालिन इति भावः । अत्रापीदृशौ कृष्णचैद्यावित्यप्रस्तुतसामान्यात्प्रस्तुतविशेषप्रतीतेरप्रस्तुतप्रशंसाभेदः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
वि सृ न्त्य वि त्थि नः रे
वि मा शी वि न्न राः क्रु धम्
तो ऽन्त सा रू तां
ध्व नि सा राः हा वे रे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.