Loading data... On slow networks this could take a few minutes.
100%

सहजान्धदृशः स्वदुर्नये
परदोषेक्षणदिव्यचक्षुषः ।
स्वगुणोच्चगिरो मुनिव्रताः
परवर्णग्रहणेष्वसाधवः ॥

मल्लिनाथः सहजेति ॥ असाधवः खलाः स्वदुर्नये स्वदोषे । महत्यपीति भावः । सहजा स्वाभाविकी अन्धा अपश्यन्ती दृग्येषां ते । जात्यन्धा इत्यर्थः । परदोषाणां सूक्ष्माणामपीति भावः । ईक्षणे दर्शने दिव्यचक्षुषोऽप्रतिहतदृष्टयः । किंच स्वगुणेषूच्चगिरः । आत्मप्रशंसायामतिप्रगल्भवाच इत्यर्थः । परवर्णग्रहणेषु परस्तुतिवचनेषु । "स्तुतौ वर्णं तु वाक्षरे` इत्यमरः । मुनिव्रता मौनव्रतिनः । `अर्श-आदिभ्योऽच्` (अष्टाध्यायी ५.२.१२७ ) । चैद्यश्चैवंविध इति प्रतीतेरप्रस्तुतप्रशंसा
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
जा न्ध दृ शः स्व दु र्न ये
दो षे क्ष दि व्य क्षु षः
स्व गु णो च्च गि रो मु नि व्र ताः
र्ण ग्र णे ष्व सा वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.