परितोषयिता न कश्चन
स्वगतो यस्य गुणोऽस्ति देहिनः ।
परदोषकथाभिरल्पकः
स्वजनं तोषयितुं किलेच्छति ॥

मल्लिनाथः परीति ॥ यस्य देहिनो जन्तोः परितोषयिता परेषामानन्दयिता स्वगतो गुणः कश्चन कश्चिदपि नास्ति । अल्पकोऽतितुच्छः, स इति शेषः । यत्तदोर्नित्यसंबन्धात् । परदोषकथाभिरन्यजनदोषोक्तिभिः स्वजनं । न तु मध्यस्थमिति भावः । तोषयितुमिच्छति किल ईहते खलु । अतोऽवश्यकर्तव्यमेतस्येत्यर्थः । चैद्यस्यापि निर्गुणत्वात्परदूषणं युक्तमिति । अत एवाप्रस्तुतप्रशंसाभेदः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
रि तो यि ता श्च
स्व तो स्य गु णो ऽस्ति दे हि नः
दो था भि ल्प कः
स्व नं तो यि तुं कि ले च्छ ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.