वचनैरसतां महीयसो
न खलु व्येति गुरुत्वमुद्धतैः ।
किमपैति रजोभिरौर्वरै-
रवकीर्णस्य मणेर्महार्घता ॥

मल्लिनाथः वचनैरिति ॥ उद्धतैर्निष्ठुरैः असतां दुर्जनानां वचनैर्महीयसो महत्तमस्य गुरुत्वं गौरवं न व्येति नापैति खलु । और्वरैर्भौमैः । `उर्वरा सर्वशस्याढ्यभूमौ स्याद्भूमिमात्रके` इति विश्वः । रजोभिरवकीर्णस्य छन्नस्य मणेर्महार्घता महामूल्यत्वम् । `मूल्ये पूजाविधावर्घः` इत्यमरः । अपैति किम् । नापैत्येवेत्यर्थः । अत्र मणिमहीयसोर्वाक्यभेदेन प्रतिबिम्बकरणादृष्टान्तालंकारः । महीयस इति सामान्याद्धरेरिति विशेषप्रतीतेरप्रस्तुतप्रशंसा चेति संकरः हरिमण्योरुपमाध्वनिश्च
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
नै तां ही सो
लु व्ये ति गु रु त्व मु द्ध तैः
कि पै ति जो भि रौ र्व रै
की र्ण स्य णे र्म हा र्घ ता
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.