जितरोषरया महाधियः
सपदि क्रोधजितो लघुर्जनः ।
विजितेन जितस्य दुर्मते-
र्मतिमद्भिः सह का विरोधिता ॥

मल्लिनाथः जितेति ॥ महाधियः सुधियो जितो रोषरयो यैस्ते तथोक्ताः । लघुरल्पो जनस्तु सपदि क्रोधजितः । एवं विजितेन जितस्य । जितेन क्रोधेन जितस्येत्यर्थः । दुर्मतेर्मूर्खस्य मतिमद्भिः पण्डितैः सह विरोधिता स्पर्धा का । मूर्खपण्डितर्योमैत्रीव स्पर्धापि न संगतेत्यर्थः । मूर्खश्चायं चैद्य इत्यप्रस्तुतात्सामान्याद्विशेषप्रतीतेरप्रस्तुतप्रशंसाभेदः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
जि रो या हा धि यः
दि क्रो जि तो घु र्ज नः
वि जि ते जि स्य दु र्म ते
र्म ति द्भिः का वि रो धि ता
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.