Loading data... On slow networks this could take a few minutes.
100%

परितप्यत एव नोत्तमः
परितप्तोऽप्यपरः सुसंवृतिः ।
परवृद्धिभिराहितव्यथः
स्फुटनिर्भिन्नदुराशयोऽधमः ॥

मल्लिनाथः परितप्यत इति ॥ किंच उत्तमः परवृद्धिभिर्न परितप्यते न व्यथत एव । उत्तमस्यापरशुभद्वेष एव नास्तीत्यर्थः । अपरो मध्यम एवेत्यर्थः । परितप्तोऽपि शोभना संवृतिः परितापगोपनं यस्य स सुसंवृतिः । सन्तमपि परशुभद्वेषं न प्रकाशयतीत्यर्थः । अधमस्तु परवृद्धिभिराहितव्यथः । उत्पादितसंतापः तथा स्फुटं निर्भिन्नः प्रकाशितो दुराशयः परशुभद्वेषलक्षणो दुरभिप्रायो यस्य सः । परशुभद्वेष्टि प्रकाशयति चेत्यर्थः । चैद्यश्चाधमो हरिस्तूत्तम इति प्रतीतेः पूर्वोक्त एवालंकारः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
रि प्य नो त्त मः
रि प्तो ऽप्य रः सु सं वृ तिः
वृ द्धि भि रा हि व्य थः
स्फु नि र्भि न्न दु रा यो ऽध मः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.