अनिराकृततापसंपदं
फलहीनां सुमनोभिरुज्झिताम् ।
खलतां खलतामिवासतीं
प्रतिपद्येत कथं बुधो जनः ॥

मल्लिनाथः अनिराकृतेति ॥ अनिराकृता अनिवारिता तापसंपत् तापातिशयो यया ताम् । एकत्र संतापजननैकस्वभावादपरत्रासतच्छायाविरहाच्चेति भावः। तथा फलहीनाम् । एकत्र इहामुत्र चोपकारशून्यां प्रत्युतोभयत्राप्यनर्थकारी चेति भावः । अन्यत्र सर्वस्वरहितां सुमनोभिर्बुधैरुज्झितां अन्यत्र पुष्पैर्वर्जिताम् । `सुमना पुष्पमालत्योः स्त्री देवबुधयोः पुमान्` इति वैजयन्ती । असती दुष्टाम्, अन्यत्र निरुपाख्यां खलस्य भावः खलता तां खलतां दुर्जनत्वम् । खस्य लता तां गगनलतिकामिव बुधो सदसद्विवेककुशलो जनः कथं प्रतिपद्येतावलम्बेत । न कथमपीत्यर्थः । वृथा मत्सरो न कस्यापि गुण इति भावः । तथापि खलतां प्रतिपद्यते चैद्यो न हरिरिति प्रतीतेः सैवाप्रस्तुतप्रशंसा खलतामिवेत्युपमया संकीर्यते । `अत्यन्तासत्परिज्ञानमर्थे शब्दः करोति हि` इति न्यायादसत्या अपि प्रतीतिसत्याः खलतिकायाः खलतोपमत्वसिद्धिः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
नि रा कृ ता सं दं
ही नां सु नो भि रु ज्झि ताम्
तां ता मि वा तीं
प्र ति द्ये थं बु धो नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.