Loading data... On slow networks this could take a few minutes.
100%

उपकारपरः स्वभावतः
सततं सर्वजनस्य सज्जनः ।
असतामनिशं तथाप्यहो
गुरुहृद्रोगकरी तदुन्नतिः ॥

मल्लिनाथः उपकारेति ॥ किंच सज्जनः स्वभावतः सततं सर्वजनस्योपकारपरः । नतूपाधिपरः कदाचित्कस्यचिदेवेति भावः । तथापि सर्वोपकारित्वेऽपि तदुन्नतिस्तस्य सज्जनस्योत्कर्षः असतामसाधूनामनिशं गुरुहृद्रोगकरी अत्यन्तहृदयसंतापकारिणी । `कृञो हेतु-` (अष्टाध्यायी ३.२.२० ) इत्यादिना ताच्छील्ये टप्रत्यये `टिड्ढाणञ्-` (४।०१५) इत्यादिना ङीप् । हरिचैद्यौ चैवंभूताविति सैवाप्रस्तुतप्रशंसा
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
का रः स्व भा तः
तं र्व स्य ज्ज नः
ता नि शं था प्य हो
गु रु हृ द्रो री दु न्न तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.