मधुरं बहिरन्तरप्रियं
कृतिनावाचि वचस्तथा त्वया ।
सकलार्थतया विभाव्यते
प्रियमन्तर्बहिरप्रियं यथा ॥

मल्लिनाथः मधुरमित्यादि ॥ कृतिना कुशलेन त्वया बहिः प्रकाशे मधुरं प्रियं अन्तगर्भेऽप्रियं वचस्तथा तेन प्रकारेणावाचि उक्तम् । वचेः कर्मणि लुङि चिणि वृद्धिः। यथा येन प्रकारेण सकलार्थतया संपूर्णोभयार्थतया हेतुना अन्तःप्रियं बहिरप्रियं विभाव्यतेऽवधार्यते । अस्माभिरिति शेषः । अप्रियगर्भं प्रियं यदुक्तं तदस्माकं तु प्रियगर्भमप्रियमेव प्रतीयते । ईदृगुक्तिचातुर्यं तवैवेत्यभिप्रेत्योक्तं कृतिनेति । अतो न श्रद्धेयमिदं वच इति भावः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
धु रं हि न्त प्रि यं
कृ ति ना वा चि स्त था त्व या
ला र्थ या वि भा व्य ते
प्रि न्त र्ब हि प्रि यं था
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.