अतिकोमलमेकतोन्यतः
सरसाम्भोरुहवृन्तकर्कशम् ।
वहति स्फुटमेकमेव ते
वचनं शाकपलाशदेश्यताम् ॥

मल्लिनाथः अतीति ॥ एकतो बहिः अतिकोमलम्, अन्यतः अन्तः सरसमार्द्रं यदम्भोरुहस्य वृन्तं प्रसवबन्धनं तदिव कर्कशं परुषं एकमेव ते तव वचनं ईषदसमाप्तं शाकपलाशं शाकपलाशदेश्यं महापत्राख्यतरुपत्रं तत्तुल्यम् । `शाकः पलाशसारः स्याद्वरदारुः करच्छदः । महापत्रो महाशाकः स्थिरदारुर्हनीटकः ॥` इत्यभिधानरत्नमालायाम् । `ईषदसमाप्तौ कल्पब्देश्यदेशीयरः` (अष्टाध्यायी ५.३.६७ ) इति देश्यप्रत्ययः । कल्पदेश्य देशीयानि सादृश्यवाचकानीति दण्डी । तस्य भावस्तत्ता तां वहति । अन्तःपरुषस्य बहिर्माधुर्यं यथा शाकपलाशवदिति भावः । अत्र शाकपलाशोपमायाः पद्मवृन्तोपमासापेक्षत्वात्संकरः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
ति को मे तो न्य तः
सा म्भो रु वृ न्त र्क शम्
ति स्फु मे मे ते
नं शा ला दे श्य ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.