इति जोषमवस्थितं द्विषः प्रणिधिं गामभिधाय सात्यकिः । वदति स्म वचोऽथ चोदितश्चलितैकभ्रू रथाङ्गपाणिना ॥

मल्लिनाथः इतीति ॥ इतीत्थंभूतां गां वाचम् । `अर्जुनीनेत्रदिग्बाणभूवाग्वारिषु गौर्मता` इति विश्वः । अभिधाय जोषं तूष्णीमवस्थितम् । `तूष्णीं जोषं भवेन्मौने` इति वैजयन्ती । द्विषः प्रणिधिं दूतं सात्यकिः । अथ दूतवाक्यानन्तरं रथाङ्गं चक्रं पाणौ यस्य तेन रथाङ्गपाणिना हरिणा । `प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः` इति पाणेः परनिपातः । चलिता प्रेरिता एका भ्रूर्यस्मिन्कर्मणि तत् । `गोस्त्रियोरुपसर्जनस्य` (अष्टाध्यायी १.२.४८ ) इति ह्रस्वः । चोदितः । अस्योत्तरं देहीति भ्रूसंज्ञया प्रेरितः सन्नित्यर्थः । वचो वदति सावादीत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.