Loading data... On slow networks this could take a few minutes.
100%

विजितक्रुधमीक्षतामसौ
महतां त्वामहितं महीभृताम् ।
असकृज्जितसंयतं पुरो
मुदितः सप्रमदं महीपतिः ॥

मल्लिनाथः विजितेति ॥ असौ महीपतिश्चैद्यः मुदितः सन् विजितक्रुधं मैत्रीसंबन्धान्निरस्तक्रोधं महतां महीभृतां राज्ञां महितं पूजितम् । `गतिबुद्धि-` (अष्टाध्यायी ३.२.१८८ ) इत्यादिना वर्तमाने क्तः । तद्योगे षष्ठी । असकृद्धहुशो जिताः संयतः आजयो येन स तम् । `समुदायः स्त्रियां संयत्समित्याजिसमिद्युधः` इत्यमरः । सप्रमदं सहर्ष त्वा त्वाम् । त्वामौ द्वितीयायाः` (८११।२३) इति त्वादेशः । पुरोऽग्रे ईक्षतां पश्यतु ॥ परुषस्तु-विजितक्रुधं संत्यक्तक्रोधं महतां महीभृतां चैद्यादीनामहितमरिमसकृज्जितश्चासौ संयतो बद्धश्च तम् । स्नातानुलिप्तवत्पूर्वकालेति समासः । `बद्धो नद्धश्च संयतः` इति वैजयन्ती । सप्रमदं सस्त्रीकं त्वामिति पदच्छेदः । असकृदीक्षताम्
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
वि जि क्रु मी क्ष ता सौ
तां त्वा हि तं ही भृ ताम्
कृ ज्जि सं तं पु रो
मु दि तः प्र दं ही तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.