Loading data... On slow networks this could take a few minutes.
100%

समरेषु रिपून्विनिघ्नता
शिशुपालेन समेत्य संप्रति ।
सुचिरं सह सर्वसात्वतै-
र्भव विश्वस्तविलासिनीजनः ॥

मल्लिनाथः समरेष्विति ॥ किंच समरेषु रिपून्विनिघ्नता । अतिशूरेणेत्यर्थः । शिशुपालेन समेत्यैक्यं प्राप्य संप्रति सुचिरं बहुकालं सत्वतः अपत्यानि पुमांसः सात्वता यादवाः । `उत्सादिभ्योऽञ्` (४।११८६)। तैः सर्वैः सर्वसात्वतैः सह विश्वस्तविलासिनीजनः शिशुपालभयनिवृत्त्या विश्रब्धविलासिनीजनो भव । `समौ विश्रम्भविश्वासौ` इत्यमरः । परुष -रिपुघातिना शिशुपालेन सह समरेषु समेत्य संगत्य संप्रत्येव सर्वसात्वतैः सह विश्वस्तविलासिनीजनो भव । `विश्वस्ताविधवे समे` इत्यमरः । `आदितश्च` (अष्टाध्यायी ७.२.१६ ) इति चकारादनुक्तसमुच्चयार्थाच्छ्वसेर्निष्ठायामिट्प्रतिषेधः । शिशूनामनुद्धतानामेवायं पालयिता नोद्धतानामिति सर्वथा यादवानद्यैव हनिष्यतीति भावः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
रे षु रि पू न्वि नि घ्न ता
शि शु पा ले मे त्य सं प्र ति
सु चि रं र्व सा त्व तै
र्भ वि श्व स्त वि ला सि नी नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.