Loading data... On slow networks this could take a few minutes.
100%

चलितानकदुन्दुभिः पुरः
सबलस्त्वं सह सारणेन तम् ।
समितौ रभसादुपागतः
सगदः संप्रतिपत्तुमर्हसि ॥

मल्लिनाथः चलितेति ॥ रभसाद्धर्षादुपागतं प्राप्तं तं चैद्यं त्वं पुरश्चलितानकदुन्दुभिः पुरोगतवसुदेवः । `वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः` इत्यमरः । सबलो बलभद्रसहितः । सारणेन सारणाख्येन पुत्रेण सह ससारणः सगदः गदाख्येनानुजेन सहितः समितौ सभायां संप्रतिपत्तुं संभावयितुमर्हसि । सर्वबन्धुसमेतः प्रत्येतुमर्हसीत्यर्थः ॥ परुषस्तु–समितौ समरे रभसाद्वेगादुपागतं `रभसो वेगहर्षयोः । समितिः समरे साम्ये सभायामपि संगता` इत्युभयत्रापि विश्वः । तं चैद्यं पुरतश्चलिता आनकाः पटहाः, दुन्दुभयो भेर्यश्च यस्य सः । `आनकः पटहोऽस्त्री स्यात्भेरी स्त्री दुन्दुभिः पुमान्` इत्यमरः । सबलः ससैन्यः । सगदः गदया कौमोदक्या सहितः सन् सहसा झटिति रणेन युद्धेन संप्रतिपत्तुमभियोक्तुमर्हसि । अत्रापि शब्दार्थश्लेषसंकरः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
लि ता दु न्दु भिः पु रः
स्त्वं सा णे तम्
मि तौ सा दु पा तः
दः सं प्र ति त्तु र्ह सि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.