Loading data... On slow networks this could take a few minutes.
100%

विकचोत्पलचारुलोचन-
स्तव चैद्येन घटामुपेयुषः ।
यदुपुङ्गव बन्धुसौहृदा-
त्त्वयि पाता ससुरो नवासवः ॥

मल्लिनाथः विकचेति ॥ पुमान् गौरिव पुंगवः पुरुषर्षभः । उपमितसमासः । `गोरतद्धितलुकि` (अष्टाध्यायी ५.४.९२ ) इति समासान्तष्टच्प्रत्ययः । यदुषु पुंगव यदुश्रेष्ठ । `श्रेष्ठोक्षाणौ तु पुंगवौ` इति वैजयन्ती । चैद्येन कर्त्रा घटां घनसंधिमुपेयुषस्तव संबन्धीनि विकचोत्पलानि वासनार्थं विहितानि तान्येव चारुलोचनानि यस्य सः । सह सुरया माध्व्या गौड्या वा ससुरः `गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा` (मनु० ११।९४) इति वचनात् । अत्र क्षत्रियवैश्ययोः पैष्ट्यामेव निषेधः । नवासवो नवमद्यं नालिकेरादिकमिति सुरासवयोर्न पौनरुक्त्यम् । बन्धुसौहृदाद्बन्धौ त्वयि स्नेहात्पाता पास्यते त्वद्गृहे सह पानं करिष्यते । संप्रति ते सत्यतिपथत्वादिति भावः । पिबतेः कर्मणि लुट् ॥ परुषस्तु-हे यदुपुंगव यादवबलीवर्द, चैद्येन सह घटामुपेयुषः समराभियोगं गतस्य तव विकचोत्पलवच्चारुलोचनः । ससुरः सदेवो वासवोऽपि बन्धुसौहृदात् । उपेन्द्रे त्वयि सौभ्रात्रादित्यर्थः । पाता त्राता न । किं पुनर्मशका भीष्मादय इति भावः । पातेस्तृच् । सुहृदयस्य भावः सौहृदमिति विग्रहः । युवादित्वादण्प्रत्ययः `हृदयस्य हृल्लेख-` (अष्टाध्यायी ६.३.५० ) इति हृद्भावविधानसामर्थ्यान्न `हृद्भग-` (अष्टाध्यायी ७.३.१९ ) इत्युभयपदवृद्धिः । अत एव `सौहृददौहृदशब्दाभ्यामणि हृद्भावौ` इति वामनः । सुहृदस्तु सौदार्हमेव । शब्दार्थश्लेषसंकरः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
वि चो त्प चा रु लो
स्त चै द्ये टा मु पे यु षः
दु पु ङ्ग न्धु सौ हृ दा
त्त्व यि पा ता सु रो वा वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.