Loading data... On slow networks this could take a few minutes.
100%

सकलापिहितस्वपौरुषो
नियतव्यापदवर्धितोदयः ।
रिपुरुन्नतधीरचेतसः
सततव्याधिरनीतिरस्तु ते ॥

मल्लिनाथः सकलेति ॥ उन्नतमुदारं धीरमविकारं चेतो यस्य तस्य ते तव रिपुः सकलैरपिहितं तिरस्कृतं स्वपौरुषं यस्य सः । नियता नित्या व्यापदो विशिष्टापदो यस्य सः । अवर्धितोदयोऽसंपूरिताभ्युदयः सततव्याधिः संततरोगः । अनीतिर्नीतिरहितः एवं विधोऽस्तु ॥ परुषस्तु-अचेतसोऽमनस्विनः ते रिपुश्चैद्यः सकलैरपिहितस्वपौरुषः अतिरस्कृतात्मविक्रमः । `वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः` इत्यलोपे नञ्समासः । नियतं नित्यं व्यापद्विगतापत् अवर्धितोदयोऽच्छिन्नोदयः । `वृधु च्छेदने वृद्धौ` इति धातोः कर्मणि क्तः । उन्नतधीरुदारबुद्धिः सततव्याधिः विगताधिर्मनोव्यथारहितः । अनीतिरीतिबाधारहितोऽस्तु । `अतिवृष्टिरनावृष्टिः शलभा मूषकाः शुकाः । अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः ॥` अत्र सर्वत्र पदभङ्गेनार्थद्वयप्रतिपादनाज्जतुकाष्टवदेकशब्दप्रतीतेः शब्दश्लेषः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
ला पि हि स्व पौ रु षो
नि व्या र्धि तो यः
रि पु रु न्न धी चे सः
व्या धि नी ति स्तु ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.