घनजालनिभैर्दुरासदाः
परितो नागकदम्बकैस्तव ।
नगरेषु भवन्तु वीथयः
परिकीर्णा वनजैर्मृगादिभिः ॥

मल्लिनाथः घनेति ॥ तव नगरेषु वीथयो रथ्या घनजालनिभैर्मेघसमूहकल्पैः वनजैवनभवैः मृगादिभिः मृगप्रभृतिभिः । भद्रो मन्द्रो मृगश्चेत्येवं त्रिविधैरपीत्यर्थः ।&#३२; नागकदम्बकैर्गजवृन्दैः परितः परिकीर्णा व्याप्ताः अत एव दुरासदा दुष्प्रवेशा भवन्तु । राज्ञा संधाने महदैश्वर्यं ते भविष्यतीत्यर्थः ॥ परुषस्तु-घनजालनिभैः सान्द्रानायतुल्यैः । `आनायः पुंसि जालं स्यात्` इत्यमरः । नागकदम्बकैः सर्पसंधैर्वनजैमृगादिभिर्मृगव्यालपुलिन्दप्रभृतिभिः । अथवा मृगादिभिः मृगभक्षकैः शरभशार्दूलादिभिः दुरासदा भवन्तु । राजविग्रहादरण्यप्रायं गता भवन्त्वित्यर्थः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
जा नि भै र्दु रा दाः
रि तो ना म्ब कै स्त
रे षु न्तु वी यः
रि की र्णा जै र्मृ गा दि भिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.