Loading data... On slow networks this could take a few minutes.
100%

विहितापचितिर्महीभृतां
द्विषतामाहितसाध्वसो बलैः ।
भव सानुचरस्त्वमुच्चकै-
र्महतामप्युपरि क्षमाभृताम् ॥

मल्लिनाथः विहितेति ॥ सहानुचरः सानुचरः सभृत्यो महीभृता चैद्येन विहितापचितिः कृतपूजः । लोकवेदयोः सानुचरस्यैव राज्ञः पूज्यत्वप्रसिद्धेरिति भावः । अत एव बलैः सैन्यैः द्विषतां शत्रूणामाहितसाध्वसो जनितभयः सन् स्वयं महतामपि क्षमाभृतां राज्ञामुपर्युच्चकैरुन्नतस्त्वं भव सर्वोत्कर्षेण वर्तस्व ॥ परुषस्तु-महीभृता चैद्येन विहितापचितिः कृतहानिः। `भवेदपचितिः पूजाव्ययहानिषु निष्कृतौ` इति विश्वः । अत एव द्विषतां बलैराहितसाध्वसो भीषितः सन् त्वमुच्चकैः महतां क्षमाभृतां भूधराणामुपरि सानुषु चरतीति सानुचरः स भव । चरेष्टः । अत्रापि शब्दार्थश्लेषसंकरः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
वि हि ता चि ति र्म ही भृ तां
द्वि ता मा हि सा ध्व सो लैः
सा नु स्त्व मु च्च कै
र्म ता प्यु रि क्ष मा भृ ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.