काचित्कीर्णा रजोभिर्दिवमनुविदधे भिन्नवक्त्रेन्दुलक्ष्मी-
रश्रीकाः काश्चिदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसत्वाः ।
भ्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पमापुः
प्रस्थाने पार्थिवानामशिवमिति पुरो भावि नार्यः शशंसुः ॥

मल्लिनाथः इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्रयङ्के पञ्चदशः सर्गः॥ १५॥ काचिदिति ॥ काचिस्त्री रजोभिरार्तवैरङ्गसंस्कारत्यागात्पांशुभिर्वा कीर्णा । `स्या द्र्नः पुष्पमार्तवम्` इति । `पांशुर्ना न द्वयो रजः` इति चामरः ।दिवस्त्वौत्पातिकपांसुवर्षणाद्रजःकीर्णता । वक्रमिन्दुरिव, अन्यत्र वक्रमिवेन्दुर्भिन्नास्तस्य लक्ष्म्यो यस्याः सा भिन्नवक्रेन्दु लक्ष्मीः । बहुवचनान्तो बहुव्रीहिः। एवमपि एकवचनान्तस्यैव लक्ष्मीशब्दस्योरःप्रभृतिषु पाठान्न तन्निमित्तः कप्प्रत्ययः । शैषिक&#३२; स्तु वैभाषिक इत्यविरोधः । काचिन्नारी दिवमनुविदधेऽनुचकार । काश्चिन्नार्यों दिश इवाश्रीका वीतशोभाः । उद्धान्तसत्त्वा उद्भेन्तचित्ता उद्भ्रान्तजन्तुकाश्च सत्यः । अन्तरात्मनि मध्ये च दाहं संतापम्, अन्यत्रौत्पातिकं प्रज्वलनं दधिरे दधुः । अन्या नार्यों वात्या इव वातसमूहा इव । `शाखादिभ्यो यत्` (अष्टाध्यायी ५.३.१०३ ) इति यत्प्रत्ययः । प्रतिदिशं दिशि दिशि । `अव्ययीभावे शरत्प्रभृतिभ्यः` (पा.५।४।१०७}} ) इति समासान्तष्टप्रत्ययः । भ्रमुर्बभ्रमः । `वा जॄभ्रमुत्रसाम्` (अष्टाध्यायी ६.४.१२४ ) इति विकल्पादेत्वाभ्यासलोपौ । अपरा नार्यों भूमिवत् भूम्या तुल्यं कम्पमापुः । इतीत्थं पार्थिवानां प्रस्थाने प्रयाणे नार्यों भाव्यशुभं पुरः पूर्वं शशंसुः । सूचयामासुरित्यर्थः । अत्र नारीणां भाव्यशुभसूचनस्य रजोदाहादिवाक्यार्थहेतुकं काव्यलिङ्गम् । तत्र नारीणां द्युदिगाद्युपमाभिस्तद्रजोदाहादिवन्नारीरजोदाहादीनामशुभसूचकत्वमित्युपमाकाव्यलिङ्गयोरङ्गाङ्गिभावेन संकरः । संचारिणश्च पूर्ववद्विषादादयः सुगमाः । अत्र `काश्चित्कीर्णा रजोभिर्दिवमनुविदधुभिन्नवक्रेन्दुलक्ष्म्यो निश्रीकाः काश्चित्` इति पाठे काचित्कीर्णेत्येकवचनप्रक्रमभङ्गे दोषो नास्ति । न चैवमुपमानोपमेययोर्भिन्नवचनत्वदोषः । लोकेषु चन्द्रादिष्वेकत्र नियतेषु दोषबुद्धयनुदयात् । यथाह दण्डी-`न लिङ्गवचने भिन्ने न हीनाधिकतापि वा । उपमादूषणायालं यत्रोद्वेगो न धीमताम् ॥` इति स्रग्धरावृत्तम् । `म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्` इति लक्षणात्
छन्दः स्रग्धरा [२१: मरभनययय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१
का चि त्की र्णा जो भि र्दि नु वि धे भि न्न क्त्रे न्दु क्ष्मी
श्री काः का श्चि न्त र्दि धि रे दा मु द्भ्रा न्त त्वाः
भ्रे मु र्वा त्या वा न्याः प्र ति रा भू मि त्क म्प मा पुः
प्र स्था ने पा र्थि वा ना शि मि ति पु रो भा वि ना र्यः शं सुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.