Loading data... On slow networks this could take a few minutes.
100%

सम्प्रत्युपेयाः कुशली पुनर्युधः
सस्नेहमाशीरिति भर्तुरीरिता ।
सद्यः प्रसह्य द्वितयेन नेत्रयोः
प्रत्याचचक्षे गलता भटस्त्रियाः ॥

मल्लिनाथः संप्रतीति ॥ संप्रतीदानीमेव कुशली अक्षतः सन् युधो युद्धात्पुनः उयेयाः प्रत्यावर्तस्वेति सस्नेहं भर्तुरीरिता भर्त्रे प्रयुक्ता आशीराशीर्वादः सद्यः प्रसह्य बलाद्गलदम्भसा स्रवदश्रुणा तस्या भटस्त्रियास्तस्य वध्वा एव । अस्त्रीति प्रतिषेधान्नदीत्वादाडागमः । नेत्रयोर्द्वितयेन प्रत्याचचक्षे प्रत्याख्याता । निराकृतेत्यर्थः । अमङ्गलेनाश्रुपातेन निष्फलीकृतेत्यवश्यं भवितव्यं भवत्येवेति भावः । `वा लिटि` (अष्टाध्यायी २.४.५५ ) इति विकल्पान्न चक्षिङः ख्याजादेशः । अत्राश्रुपातस्य नेत्रविशेषणद्वारा आशीःप्रत्याख्याने हेतुत्वात्काव्यलिङ्गभेदः
छन्दः इन्द्रवंशा [१२: ततजर]
छन्दोविश्लेषणम्
१० ११ १२
म्प्र त्यु पे याः कु ली पु र्यु धः
स्ने मा शी रि ति र्तु री रि ता
द्यः प्र ह्य द्वि ये ने त्र योः
प्र त्या क्षे ता स्त्रि याः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.