Loading data... On slow networks this could take a few minutes.
100%

दमघोषसुतेन कश्चन
प्रतिशिष्टः प्रतिभानवानथ ।
उपगम्यहरिं सदस्यदः
स्फुटभिन्नार्थमुदाहरद्वचः ॥

मल्लिनाथः दमघोषेत्यादि ॥ अथ संनाहानन्तरं दमघोषसुतेन शिशुपालेन प्रतिशिष्टः प्रहितः। `प्रतिशिष्टः प्रेषिते स्यात्प्रत्याख्याने च वाच्यवत्` इति विश्वः । प्रतिभानमस्थास्तीति प्रतिभानवान् । अवसरोचितोत्तरस्फुरणशक्तिमानित्यर्थः । कश्चन कश्चिद्दूतः हरिं कृष्णमुपगम्य प्राप्य सदसि सभायां स्फुटौ भिन्नार्थौ पृथगर्थौ प्रियाप्रियरूपौ यस्मिंस्तत्स्फुटभिन्नार्थम् । युगपदुभयार्थाभिधायकमित्यर्थः । तथैव वक्ष्यति-`उभयं युगपन्मयोदितं त्वरया सान्त्वमथेतरच्च ते` (१६॥४२) इति । अदः इदं वक्ष्यमाणं वचः उदाहरयाहरत् । अस्मिन्सगै वैतालीयाख्यं मात्रावृत्तम् । `षड्विषमेऽष्टौ समे कलाः षट् च समे स्युर्नों निरन्तराः । न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः ॥` इति लक्षणात्
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
घो सु ते श्च
प्र ति शि ष्टः प्र ति भा वा
म्य रिं स्य दः
स्फु भि न्ना र्थ मु दा द्व चः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.