Loading data... On slow networks this could take a few minutes.
100%

अभिवर्त्म वल्लभतमस्य
विगलदमलायतांशुका ।
भूमिनभसि रभसेन यती
विरराज काचन समं महोल्कया ॥

मल्लिनाथः अभीति ॥ वल्लभतमस्य प्रियतमस्याभि वर्त्माभिमार्गं विगलदङ्गसादात्त्रंसमानममलमायतं चांशुकं वस्त्रं यस्याः, अन्यत्र विगलन्तो विशीर्यमाणा अमला उज्ज्वलाः आयता दीर्घीभूता अंशवो रश्मयो यस्याः सा । शैषिक: कप्रत्ययः । भूमिर्नभ इव तस्मिन्भूमिनभसि रभसेन वेगेन यती यान्ती । इणः शतरि `उगितश्च (अष्टाध्यायी ४.१.६ ) इति ङीप् । काचनाङ्गना महोल्कया समं सदृशं विरराज । अत्र प्रस्थातुरग्रे स्वकान्ताया महोल्कासादृश्यभवनमेव दुर्निमित्तमिति भावः । उपमालंकारः
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
भि र्त्म ल्ल स्य
वि ला तां शु का
भू मि सि से ती
वि रा का मं हो ल्क या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.