मल्लिनाथः
क्षणेति ॥ कतिपयं च तत्पदं च तत् । जातावेकवचनम् । कतिचित्पदानीत्यर्थः । पदशब्दस्य तदवच्छिन्नदेशवाचित्वादत्यन्तसंयोगे द्वितीया । चलितेन प्रस्थितेन । केनचिदिति शेषः । क्षणमात्रमरोधि क्षणमात्रप्रतिबन्धकम् । प्राणदानकजीविनामवसरे सत्यधिकं स्थातुमनौचित्यादिति भावः । नतभ्रुवः स्रस्तानामगसादेन झटिति प्रकोष्ठाग्रे पतितानां भुजयुगगलद्वलयानां हस्तद्वयचलत्कङ्कणानां स्वनितं रणत्कारं प्रति प्रतिमुखं क्षुतमिवोपशुश्रुवे उपश्रुतम् । `स्त्री क्षुक्षुतं क्षवः पुंसि` इत्यमरः । रणत्कारे क्षुतभ्रान्त्या निवृत्तम् । क्षणमात्रं स्थितमित्यर्थः । अक्षुते क्षुतभ्रान्त्या भ्रान्तिमदलंकारः । दैन्यविषादाख्याः संचारिणः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.