सह कज्जलेन विरराज
नयनकमलाम्बुसन्ततिः ।
गण्डफलकमभितः सुतनोः
पदवीव शोकमयकृष्णवर्त्मनः ॥

मल्लिनाथः सहेति ॥ सुतनोः शुभाङ्गयाः गण्डफलकमभितः । गण्डस्थलयोरित्यर्थः । `अभितःपरित:-` (वा०) इत्यादिना द्वितीया । नयनकमलाम्बुसंततिरश्रुधारा कज्जलेनाञ्जनेन सह शोक एव शोकमयस्तस्य कृष्णवर्त्मनः शोकाग्नेः पदवी निःसरणमार्ग इव विरराज शुशुभे । येन वर्त्मना अग्निर्गच्छति तत्कृष्णं भवतीति कृष्णवर्त्मा । अत्राप्यश्रुपात एव दुर्निमित्तमिति भावः
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
ज्ज ले वि रा
ला म्बु न्त तिः
ण्ड भि तः सु नोः
वी शो कृ ष्ण र्त्म नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.