अतिरक्तभावमुपगम्य कृतमतिरमुष्य साहसे । दृष्टिरगणितभयासिलतामलम्बते स्म सभया सखीमिव ॥

मल्लिनाथः अतिरक्तेति ॥ अमुष्य चैद्यस्य दृष्टिः । अतिरक्तस्य भावो धर्मस्तमतिरक्तभावं रोषातिरेकादत्यरुणतामन्यत्र कर्मातिरेकादत्यनुरागितामुपगम्य प्राप्य । साहसे कृष्णादिवधरूपे, अन्यत्र युद्धे कृतमतिः । सर्वथा गमिष्यामि हनिष्यामि इति च कृतनिश्चयोऽर्थनिर्धारणं मतिरिति । अगणितमविचारितं भयं शत्रोर्गुरुजनाच्च यया सा सती समया समीपे असिलतां सखीमिवावलम्बते स्म साधनत्वेन च स्वीचकार । क्रोधाज्जिघांसया खड्गमद्राक्षीदित्यर्थः । अत्र प्रस्तुतदृष्टिविशेषणसाम्यादप्रस्तुतनायिकाप्रतीतेः समासोक्तिरुपमासंकीर्णा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.