मल्लिनाथः
कृतेति ॥ कुटिले ध्रुवौ यस्य तत्कुटिलभ्रु । उपसर्जनस्य हस्वः । गुर्व्या भृकुट्या भ्रूभङ्गेन कठोरितं भीषणीकृतं ललाटं यस्य तत् । तस्य चैद्यस्याननं पुनरपि तृतीयचक्षुषा कृतसंनिधानं कृतसंसर्गमिवेत्युत्प्रेक्षा । क्रूरमजनि भयंकरमभूत्| जनेः कर्तरि लुङ् `दीपजन-` (३।१॥६१) इत्यादिना विकल्पाच्चिण्प्रत्ययः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.