मल्लिनाथः
करेति ॥ अयं चैद्यः उरुतरो महत्तरो नगाश्मवत् शैलशिलेव कर्कश इत्युपमा । तं निजमात्मीयमूरुं सक्थि । `सक्थि क्लीबे पुमानूरुः` इत्यमरः । करः कुड्मल इवेत्युपमितसमासः । तेन संहतप्रसारिताङ्गुलिना पाणितलेनेत्यर्थः । त्रस्तो भीतः अत एव चपलं चञ्चलं चलमानेन जनेन श्रुतो भीमनादो भयंकरध्वनिर्यस्मिन्कर्मणि तद्यथा तथा उच्चकैस्तारं आहत आहतवान् । अलब्धलक्ष्याः क्रोधान्धाः स्वात्मानमेव घ्नन्तीति भावः । आङ्पूर्वाद्धन्तेर्लङ् `आङो यमहनः` (अष्टाध्यायी १.३.२८ ) &#३२; इत्यकर्मकाधिकारेऽपि `खाङ्गकर्मकाञ्चेति वक्तव्यम्` (वा०) इत्यात्मनेपदे `अनुदात्तोपदेश-` (अष्टाध्यायी ६.४.३७ ) इत्यादिनानुनासिकलोपः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.