विपुलाचलस्थलघनेन जिगमिषुभिरङ्गनाः प्रियैः । पीनकुचतटनिपीडदलद्वरवारबाणमुरसालिलिङ्गिरे ॥

मल्लिनाथः विपुलेति ॥ जिगमिषुभिर्युद्धाय गन्तुमिच्छुभिः । प्रियैः कर्तृभिः अङ्गनाः विपुलं यदचलस्य स्थलं तद्वद्धनेन दृढेनोरसा निजवक्षसा करणेन पीने कुचतटे निपीडो नितरां पीडनं तेन दलन्तो विदीर्यमाणा वराः श्रेष्ठा वारबाणाः कञ्चुका यस्मिन्कर्मणि तद्यथा तथा । `कञ्जुको वारबाणोऽस्त्री` इत्यमरः । आलिलिगिरे आलिङ्गिताः । अत्र वारबाणानां दलनासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.