मल्लिनाथः
नेति ॥ दयितस्य जयमङ्गलम् । तदर्थमङ्गलमित्यर्थः । अश्वघासादिवत्तदर्थे षष्ठीसमासः । तदिच्छतीति तदेषिणी विलासिनी काचिदङ्गना लोचनजलान्यश्रूणि न मुमोच । अश्रुपातस्यामङ्गलत्वादिति भावः । अमङ्गलं तदन्यतः प्रवृत्तमेवेत्याहयातमिति । अवसन्नभुजाच्छोकशिथिलात्कराद्गलद्भ्रश्यदेवावनिं भुवं यातं प्राप्तं वलयं कङ्कणं न विवेद । अवश्यभाविनां को निवारक इति भावः । एषा च दैन्यचिन्तेति । अत्रावसादस्य विशेषणगत्या वलयपातहेतुत्वात्काव्यलिङ्गम्
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.