सुदृशः समीकगमनाय युवभिरथ संबभाषिरे । शोकपिहितगलरुद्धगिरस्तरसागताश्रुजलकेवलोत्तराः ॥

मल्लिनाथः सुदृश इति ॥ अथास्मिन्नवसरे युवभिः समीकगमनाय युद्धगमनाय । `समीकं सांपरायिकम्` इत्यमरः । सुदृशः शोकपिहिते शोकावृते गले कण्ठे रुद्धगिरः प्रतिबद्धोत्तरवाचस्तथापि तरसा वेगेनागतमश्रुजलमेव केवलं निर्णीतमुत्तरं यासां ताः । `निर्णीतं केवलं चोक्तम्` इति विश्वः । संबभाषिरे संभाषिताः । योद्धं गच्छामेत्यामन्त्रिताः । `हा कष्टमिदमेवान्तिमदर्शनम्` इति वाक्यभेदेऽप्यश्रुपातेनैवानक्षरं दत्तोत्तराश्चासन्नित्यर्थः । अत्राप्यश्रुपातो दुर्निमित्तमिति भावः । एतेन गन्तव्यं चेद्गम्यतां, वयं च युष्मत्सालोक्यकामा इत्यनिष्टविध्याभासरूपाक्षेपालंकारो व्यज्यते । अनिष्टविध्याभासश्चेति सूत्रेणेष्टनिषेधाभासवदस्यापि लक्षणात्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.