भृशमङ्गसादकरुणत्व-
मविशददृशः कपोलयोः ।
वाक्यमसकलमपास्य मदं
विदधुस्तदीयगुणमात्मना शुचः ॥

मल्लिनाथः भृशमिति ॥ शुचो भाविविरहभावनाप्रसूताः शोकाः अविशदद्दशः शोका देवाप्रसन्नदृष्टेः । कस्याश्चिदिति शेषः । मदमपास्य तदुत्पत्तिं प्रतिरुध्य तदीयं गुणं तद्धर्मम् । मदकार्यभूतमित्यर्थः । अङ्गसादमङ्गशैथिल्यं कपोलयोररुणत्वमसकलमसमाप्तं वाक्यं चात्मना स्वयम् । प्रकृत्यादिभ्य उपसंख्यानात्तृतीया । भृशं विदधुः । करुणेन शृङ्गारस्तिरस्कृत इत्यर्थः । अत्र मदाभावेऽपि तत्कार्योदयात्तस्यावलोकननिमित्तकत्वोक्त्या उक्तनिमित्ताख्यो विभावनाभेदः
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
भृ ङ्ग सा रु त्व
वि दृ शः पो योः
वा क्य पा स्य दं
वि धु स्त दी गु मा त्म ना शु चः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.