मल्लिनाथः
दयितायेत्यादि ॥ दयिताय प्रेयसे उदस्तं पानार्थमुत्क्षिप्तं सासवं समद्यं अत एवोपहिते वासनार्थं निहिते सरोजे पतन् भ्रमरौघ एव भारः तेन गुरु दुर्भरम् । `गुरुस्तु वाक्पतौ श्रेष्ठे तुङ्गे पितरि दुर्भरे` इति शब्दार्णवे । कांस्यं पानभाजनम् । `कंसोऽस्त्री पानभाजनम्` इत्यमरः । `वृतृवदिहनिकमिकषिभ्यः सः` (उ० ३४२) इति कमेर्धातोरौणादिकः सप्रत्ययः । तस्मै हितं कंसीयं लोहविशेषः । `प्राक्क्रीताच्छः` (अष्टाध्यायी ५.१.१ ) इति छप्रत्ययः । तस्य विकारः कांस्यं पानपात्रम् । `कंसीयपरशव्ययोर्यञञौ लुक्च` (अष्टाध्यायी ४.३.१६८ ) इति यज्प्रत्यये छस्य लुक् । राजयोषितः कस्याश्चिद्राजवध्वाः संबन्धिनः अवसादिनः शैथिल्यभाजः करादपतत् । तच्च दुर्निमित्तमिति भावः । एतेनास्या भाविविरहशोकादेवाप्रसन्नदृष्टेः काचिच्चिन्ता व्यज्यते । अत्रावसादभारगौरवयोर्विशेषणगत्या पात्रपातहेतुत्वात्काव्यलिङ्गम्
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.