मल्लिनाथः
दधत इति ॥ लसनुरश्छदः कवचो यस्मिन्कर्मणि तद्यथा तथा । `उरश्छदः कङ्कटकोऽजगरः कवचोऽस्त्रियाम्` इत्यमरः । अत एव शशाङ्कितो मृगलाञ्छितो यः शशाङ्क इन्दुस्तस्य रुचिरिव रुचिर्यस्येत्युपमा । तद्वपुर्दधतो दधानाः महीभृतो राजानः पुरन्ध्रिजनैरङ्गनाजनैः सह । अयथार्था असत्या सिद्धिर्मदकार्योत्पत्तियस्मिंस्तद्यथार्थसिद्धिरहितम् । अनिर्वृतचित्तत्वादमादकमित्यर्थः । सरकं मधुपानं चक्रुः । उत्साहवर्धनार्थमिति भावः । `मणौ शीधौ शीधुपाने सरकं मधुभाजनम्` इति वैजयन्ती
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.