Loading data... On slow networks this could take a few minutes.
100%

रणसंमदोदयविकासिबलकलकलाकुलीकृते । शारिमशकधिरोपयितुं द्विरदे मदच्युति जनः कथञ्चन ॥

मल्लिनाथः रणेति ॥ रणेन रणारम्भेण यः संमदो हर्षः । `प्रमदसंमदौ हर्षे` (अष्टाध्यायी ३.३.६८ ) इति निपातः । तस्योदयेन जन्मना विकासिभिर्विस्तारिभिर्बलकलकलैः सैन्यकोलाहलैराकुलीकृते संक्षोभिते । अत एव मदं च्योततीति मदच्युति मदस्राविणि । क्विप् । द्विरदे गजे जनः परिजनः शारिं पर्याणम् । `ना पर्याणे विहङ्गे स्त्री शारिद्यूतगुडे न पुम्` इति वैजयन्ती । `शारिर्नाऽक्षोपकरणे स्त्रियां शकुनिकान्तरे । युद्धार्थे गजपर्याणे व्यवहारान्तरे क्वचित् ॥` इति विश्वप्रकाशश्च । अधिरोपयितुमारोपयितुं कथंचन कृच्छ्रादशकच्छशाक । शकेर्लुंङि `पुषादि-` (अष्टाध्यायी ३.१.५५ ) इति च्लेरङादेशः । अत्र विशेषणगत्या सेनाकलकलस्य मदहेतुत्वान्मदस्य शारिदुरारोपत्वहेतुत्वाच्च काव्यलिङ्गद्वयं तत्सापेक्षत्वात्संकीर्यते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.