Loading data... On slow networks this could take a few minutes.
100%

परिमोहिणा परिजनेन कथमपि चिरादुपाहृतम् । वर्म करतलयुगेन महत्तनुचूर्णपेषमपिषद्रुषा परः ॥

मल्लिनाथः परिमोहिणेति ॥ परोऽन्यो नृपः । परिमुह्यतीति परिमोही । `संपृच-`(अष्टाध्यायी ३.२.१४२ ) इत्यादिना धिनुण्प्रत्ययः । तेन । खेदयुक्तेनेत्यर्थः । परिजनेन सेवकजनेन कथमपि विलम्बेन कष्टसृष्ट्या चिरादुपाहृतमानीतं महद्वर्म संनाहं करतलयुगेन पाणितलद्वयेन तनुचूर्णपेषं पिष्ट्वा । `शुष्कचूर्णरूक्षेषु पिषः` (३।४॥३५) इति णमुलप्रत्ययः । अपिषञ्चूर्णितवान् । तच्च जिगीषोर्दुनिमित्तमिति भावः। `कषादिषु यथाविध्यनुप्रयोगः` (अष्टाध्यायी ३.४.४६ ) इत्यनुप्रयोगः । पिषेर्लुडि `पुषादि-` (अष्टाध्यायी ३.१.५५ ) इति च्लेरङादेशः । अत्र वर्मणः पेषणासंबन्धेपि तत्संबन्धोक्तेरतिशयोक्तिः । तया चामानुषं वीर्यमस्य व्यज्यते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.