परितश्च धौतमुखरुक्म-
विलसदहिमांशुमण्डलाः ।
तेनुरतनुवपुषः पृथिवीं
स्फुटलक्ष्यतेजस इवात्मजाः श्रियः ॥

मल्लिनाथः परित इति ॥ किं चेति चार्थः । धौतेषु शोधितेषु मुखरुक्मेषु मुखस्य रुक्माभरणेषु विलसत्प्रत्येकं प्रतिफलदहिमांशुमण्डलमर्कबिम्बं येषां ते तथोक्ताः । अतएव स्फुटलक्ष्यमन्तर्गत्वा बहिः स्फुरितं तेजोऽन्तःसारो येषां ते इव स्थिता इत्युत्प्रेक्षा । तेजो व्याख्यातं पञ्चमे तेजोनिरोधेत्यत्र । अतनुवपुषो महाकायाः श्रिय आत्मजा अश्वाः । `लक्ष्मीपुत्रोऽश्व आढये च` इति वैजयन्ती । परितः पृथिवीं तेनुर्व्याप्तवन्तः
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
रि श्च धौ मु रु क्म
वि हि मां शु ण्ड लाः
ते नु नु पु षः पृ थि वीं
स्फु क्ष्य ते वा त्म जाः श्रि यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.