दधतो भयानकतरत्व-
मुपगतवतः समानताम् ।
धूमपटलपिहितस्य गिरेः
समवर्मयन्सपदि मेदिनीभृतः ॥

मल्लिनाथः &#३२; दधत इति ॥ मेदिनीभृतो राजानः । धूमपटलेन पिहितस्य छादितस्य अत एव भयानकतरत्वमतिभयंकरत्वमुपगतवतो गिरेः समानतां सादृश्यं दधतो दधानाः सपदि समवर्मयन् संवर्मयन्ति स्म । सम्यग्वर्मणानहन्नित्यर्थः । `सत्यापपाश-` (अष्टाध्यायी ३.१.२५ ) इत्यादिना णिच् । उपमालंकारः
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
तो या त्व
मु तः मा ताम्
धू पि हि स्य गि रेः
र्म न्स दि मे दि नी भृ तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.