सहसा ससभ्रमविलोलसकलजनतासमाकुलम् । स्थानमगमदथ तत्परितश्चलितोडुमण्डलनभःस्थलोपमाम् ॥

मल्लिनाथः सहसेति ॥ अथ रणदुन्दुभिताडनानन्तरं सहसा झटिति ससंभ्रमं सव्यग्रं यथा तथा विलोलया चलन्त्या सकलया समग्रया जनतया जनसमूहेन समाकुलं संकीर्णं तत्स्थानं परितश्वलितं प्रस्थितमुडुमण्डलं ज्योतिश्चक्रं यस्मिंस्तस्य नभःस्थलस्योपमां सादृश्यमगमत् । अत्रोडुमण्डलस्य चलनासंबन्धेऽपि संभावनया तत्संबन्धोक्तेरतिशयोक्तिः । उपमा तु तदुज्जीविता प्रतीतिमात्रसारा तदङ्गम् । तत्रैव चमत्कारस्फुरणात् । `पुष्पं प्रवालोपहितं यदि स्यात्` इत्यादिवत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.