मल्लिनाथः
जगदिति ॥ जगदन्तकाले कल्पान्ते समवेता मिलिता ये विषदास्तोयदाः पुष्करावर्तकादयो मेघाः । `विषं तु गरले तोये` इति विश्वः । तैर्विषमं दारुणं यथा तथेरित उत्पादितो य आरवः स इवारवो यस्य तत् । धीरे गम्भीरे निजरवे विलीना अन्तर्गता गुरवः प्रतिशब्दाः शब्दान्तराणि यस्य तत् । अस्य चैद्यस्य रणतूर्यं रणदुन्दुभिरावधि आहतम् । आहन्तेः कर्मणि लुङ्। `आत्मनेपदेष्वन्यतरस्याम्` (अष्टाध्यायी २.४.४४ ) इति हनो वधादेशः । अत्राप्युत्साहो व्यज्यते । उपमालंकारः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.