त्वरमाणशाङ्खिकसवेग-
वदनपवनाभिपूरितः ।
शैलकटकतटभिन्नरवः
प्रणनाद सांनहनिकोऽस्य वारिजः ॥

मल्लिनाथः त्वरमाणेति ॥ शङ्खः शिल्पमस्येति शालिकः । तदस्य शिल्पम्` इति ठक् । त्वरमाणस्य जवमानस्य शाङ्खिकस्य यः सवेगो वदनपवनो मुखमारुतः तेनाभिपूरितः प्रध्मातः शैलानां कटकतटेषु नितम्बप्रदेशेषु भिन्नरवो मूर्छितप्रतिध्वनिरस्य चैद्यस्य संबन्धि संनहनं प्रयोजनमस्येति सांनहनिकः । योधानां रणसंनाहप्रवर्तक इत्यर्थः । तदस्य प्रयोजनम्` इति ठक् । वारिजः शङ्खः । `वारिजः शङ्खपद्मयोः` इति विश्वः । प्रणनाद दध्वान । संनहनशङ्खं दध्मावित्यर्थः । `उपसर्गादसमासेऽपि णोपदेशस्य` (अष्टाध्यायी ८.४.१४ ) इति णत्वम् । एतेनास्य महानुत्साहो वीररसस्थायी व्यज्यते
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
त्व मा शा ङ्खि वे
ना भि पू रि तः
शै भि न्न वः
प्र ना सां नि को ऽस्य वा रि जः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.