क्षणमीक्षतः पथि जनेन
किमिदमिति जल्पता मिथः ।
प्राप्य शिबिरमविशङ्किमनाः
समनीनहद्द्रुतमनीकिनीमसौ ॥

मल्लिनाथः &#३२; क्षणमिति ॥ असौ चैद्यः पथि किमिदमिति मिथः जल्पता कोऽयमनर्थः संवृत्त इति परस्परमालपता जनेन क्षणमीक्षितः सन् शिबिरं स्वकटकं प्राप्याविशङ्किमना निःशङ्कचित्तः द्रुतं शीघ्रमनीकिनीं सेनां समनीनहत् संनाहयति स्म । नह्यतेः संपूर्वकाल्लुङि `णौ चड्युपधाया ह्रस्वः` (अष्टाध्यायी ७.४.१ ) अभ्यासदीर्घश्च । शिबिरं शकटमिति केचित् । एतेनास्य रौद्रस्थायिनः कोपस्य प्ररूढत्वं वेदितव्यम्
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
क्ष मी क्ष तः थि ने
कि मि मि ति ल्प ता मि थः
प्रा प्य शि बि वि ङ्कि नाः
नी द्द्रु नी कि नी सौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.