Loading data... On slow networks this could take a few minutes.
100%

विशिखान्तराण्यतिपपात सपदि जवनैः स वाजिभिः । द्रष्टुमलघुरभसापातिता वनिताश्चकार न सकामचेतसः ॥

मल्लिनाथः विशिखान्तराणीति ॥ स चैद्यः सपदि जवनैवेंगशालिभिर्वाजिभिरश्वैर्विशिखान्तराणि रथ्यान्तराणि । `रथ्या प्रतोली विशिखा` इत्यमरः । अतिपपात अतिचक्राम । अत एव द्रष्टुमलघुरभसेनातिवेगेनापतिता आधावन्तीर्वनिताः सकामानि साभिलाषाणि चेतांसि चित्तवृत्तयो यासां ताः सकामचेतसः । सफलमनोरथा इत्यर्थः । न चकार । अतिशीघ्रलङ्घनान्न दर्शनावकाशस्तासामासीदित्यर्थः । अत एव वाक्यार्थहेतुकं काव्यलिङ्गम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.