Loading data... On slow networks this could take a few minutes.
100%

चलितं ततोऽनभिहतेच्छमवनिपतियज्ञभूमितः । तूर्णमथ ययुमिवानुययुर्दमघोषसूनुमवनीशसूनवः ॥

मल्लिनाथः चलितमिति ॥ अथ चैद्यनिर्याणानन्तरं अवनीशसूनवस्तत्पक्षराजपुत्रास्ततस्तस्याः अवनिपतेर्युधिष्ठिरस्य यज्ञभूमितो यज्ञभूमेर्देवयजनात् । पञ्चम्यास्तसिल् । अनभिहतेच्छमप्रतिहतमनोरथं यथा तथा चलितं प्रस्थितं दमघोषसूनुं शिशुपालम् । याति परलोकमिति ययुः परलोकप्रापकोऽश्वमेधीयोऽश्वः । `ययुरश्वोऽश्वमेधीयः` इत्यमरः । `यो द्वे च` (उ० २१) इति यातेरौणादिक उक् द्वित्वं च । तं ययुमिव तूर्णमनुययुः । ययुरपि राजकै राजपुत्रैरन्वीयते । `चतुःशता रक्षन्ति` इति श्रुतेः । अश्वमेधीयाश्वोपमया चैद्यस्य वध्यत्वं व्यज्यत इत्यलंकारेण वस्तुध्वनिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.