किमहो नृपाः समममीभि-
रुपपतिसुतैर्न पञ्चभिः ।
वध्यमभिहत भुजिष्यममुं
सह चानया स्थविरराजकन्यया ॥

मल्लिनाथः किमित्यादि ॥ हे नृपाः, अमीभिः पञ्चभिरुपपतिसुतैः समं जारजैः सह । पाण्डवानां क्षेत्रजत्वादित्थं प्रलापः । अनया स्थविरराजकन्यया क्षत्रियाङ्गनया च सह । `कन्या कुमारिकानार्योः` इति विश्वः । भीष्मस्योर्ध्वरेतस्कत्वेन निन्दा । वध्यं वधार्हम् । अराज्ञो राजार्हणग्रहणापराधादिति भावः । अराजत्वं व्यनक्ति-अमुं भुजिष्यं किंकरम् । कंसपशुपालनादिति भावः । `भुजिष्यः किंकरो मतः` इति `अहंकाराद्धारित`.&#३२; हलायुधः । किं नाभिहत किमिति न मारयत । किंत्वभिहतेत्यर्थः । हन्तेर्वधार्थे लोट् । `लोटो लङ्कत्` (अष्टाध्यायी ३.४.८५ ) इति थस्य तादेशः । `अनुदात्तोपदेश-` (अष्टाध्यायी ६.४.३७ ) इत्यादिनानुनासिकलोपः । अहो अतिवध्योऽपि न हन्यत इत्याश्चर्ये । अत्रामर्षानुभावो वागारम्भः । `क्रोधः कृपापराधेषु स्थिरोऽमर्ष इतीर्यते` इति
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
कि हो नृ पाः मी भि
रु ति सु तै र्न ञ्च भिः
ध्य भि भु जि ष्य मुं
चा या स्थ वि रा न्य या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.