Loading data... On slow networks this could take a few minutes.
100%

गुरुनिःश्वसन्नथ विलोल-
सदवथुवपुर्वचोविषम् ।
कीर्णदशनकिरणाग्निकणः
फणवानिवैष विससर्ज चेदिपः ॥

मल्लिनाथः गुर्विति ॥ अथैष चेदिपः फणवान्फणीव । गुर्वधिकं निःश्वसन्फूत्कुर्वन् विलोलं सदवथु ससंतापम् । `संतापो दवथुः` इत्यनेकार्थादिति सज्जनः । तद्वपुर्यस्य स विलोलसदवथुवपुः । `ट्वितोऽथुच्` (अष्टाध्यायी ३.३.८९ ) । कीर्णा विक्षिप्ता दशनकिरणा अग्निकणा इव यस्य स तथा सन् वचो विषमिव तद्वचोविषं विससर्ज । विषप्रायं वच उज्जगारेत्यर्थः । अतः फणवानिवेति व्यस्तोपमालिङ्गात्सर्वत्रोपमितसमासाश्रयणम्
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
गु रु निः श्व न्न वि लो
थु पु र्व चो वि षम्
की र्ण कि णा ग्नि णः
वा नि वै वि र्ज चे दि पः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.