मल्लिनाथः
अथवेति ॥ अथवा अगणितमरुद्गणौजसोऽवधीरितसुरसङ्घसत्त्वाः यूयमादध्वमेव तूष्णीं तिष्टतैव खलु । आस्तेर्लोटि `धि च` (अष्टाध्यायी ८.२.२५ ) इति सकारलोपः । इदं कृष्णहननं कियद्वस्तु कियत्कार्यम् । अल्पमित्यर्थः । कुतः । अयं कृष्णो मृधे युद्धे । `मृधमास्कन्दनं संख्यम्` इति युद्धपर्यायेष्वमरः । केवलस्यैकाकिनो ममैव मुखमीक्षितुं न क्षमः युष्माकं का वार्तेति भावः । एतेनास्य बलगर्यो व्यज्यते । "आत्मोत्कर्षोऽन्यधिक्कारो यल्लावण्यविभूतिभिः` इति लक्षणात्
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.