हरिमप्यमंसत तृणाय
कुरुपतिमजीगणन्न वा ।
मानतुलितभुवनत्रितयाः
सरितः सुतादबिभयुर्नभूभृतः ॥

मल्लिनाथः हरिमिति ॥ मानतुलितभुवनत्रितया अहंकारावधीरितजगत्रयाः भूभृतश्चैद्यपक्षा राजानः । हरिमपि तृणायामसत तृणसमममन्यन्त । तथा लघुं मेनिर इत्यनादरोक्तिः । मन्यतेः कर्तरि लुङि च्लेः सिच् । अनुदात्तत्वादिट्प्रतिषेधः । `मन्यकर्मणि-` (अष्टाध्यायी २.३.१७ ) इति चतुर्थी । कुरुपतिं च नाजीगणन् । न धर्मराजं गणयन्ति स्मेत्यर्थः । गणेर्णेो चङि `ई च गणः` (अष्टाध्यायी ७.४.९७ ) इत्यभ्यासस्येकारः । सरितः सुताद्धीष्मादपि नाबिभयुर्न भीताः । बिभेतेर्लुङि `श्लौ` (अष्टाध्यायी ६.१.१० ) इति द्विर्भावे `सिजभ्यस्तविदिभ्यश्च` (अष्टाध्यायी ३.४.१०९ ) इति झेर्जुसादेशः । `जुसि च` (अष्टाध्यायी ७.३.८३ ) इति गुणः । अत्र राजसु हर्यवमानाद्यनेकक्रियायोगपद्यात्समुच्चय इति सर्वस्वकारः
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
रि प्य मं तृ णा
कु रु ति जी न्न वा
मा तु लि भु त्रि याः
रि तः सु ता बि यु र्न भू भृ तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.