Loading data... On slow networks this could take a few minutes.
100%

विवृतोरुबाहुपरिघेण
सरभसपदं निधित्सता ।
हन्तुमखिलनृपतीन्वसुना
वसने विलम्बिनि निजे विचस्खले ॥

मल्लिनाथः विवृतेति ॥ अखिलनृपतीन् हन्तुं विवृतः प्रसारित उरुबाहुरेव परिघ आयुधविशेषो येन तेन । `परिघः प्रतिघातेऽस्त्री` इति हैमः । सरभसं ससत्वरं यत्पदं तनिधित्सता निधातुमिच्छता । दधातेः सन्नन्ताल्लटः शत्रादेशः । वसुना तन्नाम्ना राज्ञा विलम्बिनि उत्पातवेगाद्द्विस्रंसिनि निजे वसने स्वाम्बरे विचस्खले स्खलितम् । तद्ध्यस्य दुर्निमित्तमिति भावः । भावे लिट् । अत्र वस्त्रसंसनस्य विशेषणगत्या स्खलनहेतुत्वात्काव्यलिङ्गं तद्बाहुपरिघेति रूपकेण संसृज्यते
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
वि वृ तो रु बा हु रि घे
दं नि धि त्स ता
न्तु खि नृ ती न्व सु ना
ने वि म्बि नि नि जे वि स्ख ले
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.