मल्लिनाथः
गुर्विति ॥ विवक्षतः किमपि वक्तुमिच्छतः । वचेः सन्नन्ताल्लटः शत्रादेशः । असितयवनस्य कालयवनस्य राज्ञः संबन्धि सर्वजगदशितुमत्तुमिव व्यात्तं विवृतम् । अत एव विकरालमतिविकृतम् । `करालो दन्तुरे तुङ्गे विशाले विकृतेऽपि च` इति वैजयन्ती । गुरुणा कोपेन रुद्धपदं प्रतिबद्धवचनमास्यकुहरं वऋविवरं रौद्रातां भयंकरतामापत् । अत्राशितुमिवेति फलोत्प्रेक्षा व्यादानक्रियानिमित्ता
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.