मल्लिनाथः
इतीति । इतीत्थं तदा तस्मिन्काले विकृतरूपं रोषभीषणाकारं तद्राजमण्डलं मारबलमिव मदनसैन्यमिव । `मदनो मन्मथो मारः` इत्यमरः । अविभिन्नचेतसमविकृतचित्तं बोधिसत्त्वो बुद्धः । `बुद्धस्तु श्रीघनः शास्ता बोधिसत्त्वो विनायकः` इति वैजयन्ती। स हरिरिवेत्युपमितसमासः । तं हरिबोधिसत्त्वमभि । तत्समक्षमित्यर्थः । `अभिरभागे` (अष्टाध्यायी १.४.९१ ) इत्यभेः कर्मप्रवचनीयत्वात्तद्योगे द्वितीया । भयं करोतीति भयंकरः । `मेघर्तिभयेषु कृजः` (अष्टाध्यायी ३.२.४३ ) इति खच्प्रत्यये मुमागमः । तस्य भावस्तत्तामभजत् । उपमालंकारः । तेन भगवतो बुद्धस्य समाधिभङ्गाय प्रवृत्तं मारबलं यथा तेन भग्नं तथा राजमण्डलमपि हरिणा भज्यत इति वस्तु व्यज्यते
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.